Sarga 83: Bharata Leaves for the Forest
भरतवनप्रस्थानम्
bharatavanaprasthānam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
ये च तत्रापरे सर्वे सम्मता ये च नैगमाः । रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा ।।2.83.11।।
Meaning
मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः । सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ।।2.83.12।।
Meaning
मायूरकाः क्राकचिका रोचकाः वेधकास्तथा । दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ।।2.83.13।।
Meaning
सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः । स्नापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा ।।2.83.14।।
Meaning
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः । शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा ।।2.83.15।।
Meaning
समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः । गोरथैः भरतं यान्तमनुजग्मुः सहस्रशः ।।2.83.16।।
Meaning
सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः । सर्वे ते विविधैः यानैः शनैर्भरतमन्वयुः ।।2.83.17।।
Meaning
प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् । भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ।।2.83.18।।
Meaning
ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः । समासेदुस्ततो गङ्गां शृङ्गिबेरपुरं प्रति ।।2.83.19।।
Meaning
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशं तं परिपालयन् ।।2.83.20।।
Meaning