← Ayodhyā Kāṇḍa

Sarga 83: Bharata Leaves for the Forest

भरतवनप्रस्थानम्

bharatavanaprasthānam — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 3 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 83.21Word-by-word available

उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम् । व्यवतिष्ठत सा सेना भरतस्यानुयायिनी ।।2.83.21।।

Meaning

Shloka 83.22Word-by-word available

निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् । भरतः सचिवान् सर्वान् अब्रवीद्वाक्यकोविदः ।।2.83.22।।

Meaning

Shloka 83.23Word-by-word available

निवेशयत मे सैन्यमभिप्रायेण सर्वतः । विश्रान्तः प्रतरिष्यामः श्वैदानीमिमां नदीम् ।।2.83.23।।

Meaning

Shloka 83.24Word-by-word available

दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः । और्ध्वदेहनिमित्तार्थम् अवतीर्योदकं नदीम् ।।2.83.24।।

Meaning

Shloka 83.25Word-by-word available

तस्यैवं ब्रुवतोऽमात्यास्तथा इत्युक्त्वा समाहिताः । न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक् पृथक् ।।2.83.25।।

Meaning

Shloka 83.26Word-by-word available

निवेश्य गङ्गामनु तां महानदीम् चमूं विधानैः परिबर्हशोभिनीम् । उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम् ।।2.83.26।।

Meaning