← Ayodhyā Kāṇḍa

Sarga 85: Meeting Guha

गुहसमागमः

guhasamāgamaḥ — word-by-word gloss for all 22 shlokas.

Jump to a shloka · 22 in this sarga

Page 2 of 322 shlokas in this sarga (verified max-across-sources)
Shloka 85.11Word-by-word available

स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् । पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ।।2.85.11।।

Meaning

Shloka 85.12Word-by-word available

धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले । अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ।।2.85.12।।

Meaning

Shloka 85.13Word-by-word available

शाश्वती खलु ते कीर्तिः लोकाननुचरिष्यति । यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ।।2.85.13।।

Meaning

Shloka 85.14Word-by-word available

एवं सम्भाषमाणस्य गुहस्य भरतं तदा । बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ।।2.85.14।।

Meaning

Shloka 85.15Word-by-word available

सन्निवेश्य स तां सेनां गुहेन परितोषितः । शत्रुघ्नेन सह श्रीमान् शयनं पुनरागमत् ।।2.85.15।।

Meaning

Shloka 85.16Word-by-word available

रामचिन्तामयः शोको भरतस्य महात्मनः । उपस्थितः ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ।।2.85.16।।

Meaning

Shloka 85.17Word-by-word available

अन्तर्दाहेन दहनः सन्तापयति राघवम् । वनदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम् ।।2.85.17।।

Meaning

Shloka 85.18Word-by-word available

प्रसृतः सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम् । यथा सूर्यांशुसन्तप्तः हिमवान् प्रसृतः हिमम् ।।2.85.18।।

Meaning

Shloka 85.19Word-by-word available

ध्याननिर्दरशैलेन विनिश्श्वसितधातुना । दैन्यपादपसङ्घेन शोकायासाधिशृङ्गिणा ।।2.85.19।।

Meaning

Shloka 85.20Word-by-word available

प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना । आक्रान्तो दुःखशैलेन महता कैकयीसुतः ।।2.85.20।।

Meaning