← Ayodhyā Kāṇḍa

Sarga 42: Daśaratha's Cry

दशरथाक्रन्दः

daśarathākrandaḥ — word-by-word gloss for all 35 shlokas.

Page 2 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 42.11Word-by-word available

हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाऽग्निमिव पाणिना । अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम् ।।2.42.11।।

Meaning

Shloka 42.12Word-by-word available

निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु । राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ।।2.42.12।।

Meaning

Shloka 42.13Word-by-word available

विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् । नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ।।2.42.13।।

Meaning

Shloka 42.14Word-by-word available

वाहनानां च मुख्यानां वहतां तं ममात्मजम् । पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ।।2.42.14।।

Meaning

Shloka 42.15Word-by-word available

यः सुखेषूषधानेषु शेते चन्दनरूषितः । वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ।।2.42.15।।

Meaning

Shloka 42.16Word-by-word available

स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः । काष्ठं वा यदि वाऽश्मानमुपधाय शयिष्यते ।।2.42.16।।

Meaning

Shloka 42.17Word-by-word available

उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः । विनिश्श्वसन्प्रस्रवणात्करेणूनामिवर्षभः ।।2.42.17।।

Meaning

Shloka 42.18Word-by-word available

द्रक्ष्यन्ति नूनं पुरुषाः दीर्घबाहुं वनेचराः । राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ।।2.42.18।।

Meaning

Shloka 42.19Word-by-word available

सा नूनं जनकस्येष्टा सुता सुखसदोचिता । कण्टकाक्रमणक्रान्ता वनमद्य गमिष्यति ।।2.42.19।।

Meaning

Shloka 42.20Word-by-word available

अनभिज्ञा वनानां सा नूनं भयमुपैष्यति । श्वापदानर्धितं श्रुत्वा गम्भीरं रोमहर्षणम् ।।2.42.20।।

Meaning