Sarga 42: Daśaratha's Cry
दशरथाक्रन्दः
daśarathākrandaḥ — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
सकामा भवकैकेयि विधवा राज्यमावस । न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ।।2.42.21।।
Meaning
इत्येवं विलपन्राजा जनौघेनाभिसंवृतः । अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ।।2.42.22।।
Meaning
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् । क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ।।2.42.23।।
Meaning
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् । विलपन्प्राविशद्राजा गृहं सूर्य इवाम्बुदम् ।।2.42.24।।
Meaning
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् । रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ।।2.42.25।।
Meaning
अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः । उवाच मृदुमन्दार्थं वचनं दीनमस्वरम् ।।2.42.26।।
Meaning
कौसल्यायां गृहं शीघ्रं राममातुर्नयन्तु माम् । न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ।।2.42.27।।
Meaning
इति ब्रुवन्तं राजानमनयन्द्वारदर्शिनः । कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ।।2.42.28।।
Meaning
ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम् । अधिरुह्यापि शयनं बभूव लुलितं मनः ।।2.42.29।।
Meaning
पुत्रद्वयविहीनं च स्नुषयाऽपि विवर्जितम् । अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ।।2.42.30।।
Meaning