Sarga 15: Sumantra Sent for Rāma
सुमन्त्रप्रेषणम्
sumantrapreṣaṇam — word-by-word gloss for all 49 shlokas.
Jump to a shloka · 49 in this sarga
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम्। पाण्डरश्च वृषः सज्जः पाण्डरोऽश्वश्च सुस्थितः ।।2.15.11।।
Meaning
प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते। अष्टौ च कन्या रुचिराः सर्वाभरणभूषिताः ।।2.15.12।।
Meaning
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे। इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् ।।2.15.13।।
Meaning
तथा जातीयमादाय राजपुत्राभिषेचनम्। ते राजवचनात्तत्र समवेता महीपतिम् ।।2.15.14।।
Meaning
अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत्। न पश्यामश्च राजानमुदितश्च दिवाकरः ।।2.15.15।।
Meaning
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः। इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन् ।।2.15.16।।
Meaning
अब्रवीत्तानिदं वाक्यं सुमन्त्रो राजसत्कृतः। रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम् ।।2.15.17।।
Meaning
पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः। अहं पृच्छामि वचनात्सुखमायुष्मतामहम् ।।2.15.18।।
Meaning
राज्ञः सम्प्रतिबुध्यस्य यच्चागमनकारणम्। इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ।।2.15.19।।
Meaning
सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह। तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः ।।2.15.20।।
Meaning