Sarga 15: Sumantra Sent for Rāma
सुमन्त्रप्रेषणम्
sumantrapreṣaṇam — word-by-word gloss for all 49 shlokas.
Jump to a shloka · 49 in this sarga
शयनीयं नरेन्द्रस्य तदसाद्य व्यतिष्ठत। सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ।।2.15.21।।
Meaning
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्। सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ।।2.15.22।।
Meaning
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। गता भगवती रात्रिः कृतं कृत्यमिदं तव ।।2.15.23।।
Meaning
बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्। ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ।।2.15.24।।
Meaning
दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव। स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ।।2.15.25।।
Meaning
प्रतिबुध्य ततो राजा इदं वचनमब्रवीत्। राममानय सूतेति यदस्यभिहितोऽनया ।।2.15.26।।
Meaning
किमिदं कारणं येन ममाज्ञा प्रतिहन्यते। न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ।।2.15.27।।
Meaning
इति राजा दशरथः सूतं तत्रान्वशात्पुनः। स राजवचनं श्रुत्वा शिरसा प्रणिपत्य तम् ।।2.15.28।।
Meaning
निर्जगाम नृपावासान्मन्यमानः प्रियं महत्। प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ।।2.15.29।।
Meaning
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्। स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ।।2.15.30।।
Meaning