Sarga 92: Leave of Bharadvāja
भरद्वाजामन्त्रणम्
bharadvājāmantraṇam — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्पपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ।।2.92.11।।
Meaning
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः । तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ।।2.92.12।।
Meaning
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।।2.92.13।।
Meaning
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् । प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः ।।2.92.14।।
Meaning
हित्वा यानानि यानार्हाः ब्राह्मणं पर्यवारयन् । वेपमाना कृशा दीना सह देव्या सुमित्रया ।।2.92.15।।
Meaning
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः । असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।।2.92.16।।
Meaning
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा । तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।।2.92.17।।
Meaning
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा । ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।।2.92.18।।
Meaning
विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव । एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ।।2.92.19।।
Meaning
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः । यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।।2.92.20।।
Meaning