Sarga 92: Leave of Bharadvāja
भरद्वाजामन्त्रणम्
bharadvājāmantraṇam — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
पितुर्हि महिषीं देवीं देवतामिव पश्यसि । एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।।2.92.21।।
Meaning
कौसल्या सुषुवे रामं धातारमदितिर्यथा । अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।।2.92.22।।
Meaning
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे । एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ।।2.92.23।।
Meaning
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ । यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।।2.92.24।।
Meaning
राजपुत्रविहीनश्च स्वर्गं दशरथो गतः । क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।।2.92.25।।
Meaning
ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् । ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।।2.92.26।।
Meaning
यतोमूलं हि पश्यामि व्यसनं महदात्मनः । इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।।2.92.27।।
Meaning
स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् । भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।।2.92.28।।
Meaning
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् । न दोषेणावगन्तव्या कैकेयी भरत त्वया ।।2.92.29।।
Meaning
रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति । देवानां दानवानां च ऋषीणां भावितात्मनाम् ।।2.92.30।।
Meaning