← Ayodhyā Kāṇḍa

Sarga 92: Leave of Bharadvāja

भरद्वाजामन्त्रणम्

bharadvājāmantraṇam — word-by-word gloss for all 39 shlokas.

Page 4 of 439 shlokas in this sarga (verified max-across-sources)
Shloka 92.31Word-by-word available

हितमेव भविष्यद्धि रामप्रव्राजनादिह । अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।।2.92.31।।

Meaning

Shloka 92.32Word-by-word available

आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् । ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्कृतान् ।।2.92.32।।

Meaning

Shloka 92.33Word-by-word available

अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः । गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः ।।2.92.33।।

Meaning

Shloka 92.34Word-by-word available

जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे । विविधान्यपि यानानि महान्ति च लघूनि च ।।2.92.34।।

Meaning

Shloka 92.35Word-by-word available

प्रययुः सुमहार्हाणि पादैरेव पदातयः । अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः ।।2.92.35।।

Meaning

Shloka 92.36Word-by-word available

रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा । चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।।2.92.36।।

Meaning

Shloka 92.37Word-by-word available

आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः । सा प्रयाता महासेना गजवाजिरथाकुला ।।2.92.37।।

Meaning

Shloka 92.38Word-by-word available

दक्षिणां दिशमावृत्य महामेघ इवोत्थितः । वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः । गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ।।2.92.38।।

Meaning

Shloka 92.39Word-by-word available

सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ।।2.92.39।।

Meaning