Sarga 39: Farewell before the Forest
वनगमनापृच्छा
vanagamanāpṛcchā — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ।।2.39.21।।
Meaning
असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा । युवत्यः पापसङ्कल्पाः क्षणमात्राद्विरागिणः ।।2.39.22।।
Meaning
न कुलं न कृतं विद्यां न दत्तं नापि सङ्ग्रहम् । स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ।।2.39.23।।
Meaning
साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे । स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ।।2.39.24।।
Meaning
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम । तव दैवतमस्त्वेषः निर्धनः सधनोऽपि वा ।।2.39.25।।
Meaning
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् । कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ।।2.39.26।।
Meaning
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् । अभिज्ञाऽस्मि यथा भर्तुः त्वर्तितव्यं श्रुतं च मे ।।2.39.27।।
Meaning
न मामसज्जनेनार्या समानयितुमर्हति । धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ।।2.39.28।।
Meaning
नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः । नापतिः सुखमेधेत या स्यादपि शतात्मजा ।।2.39.29।।
Meaning
मितं ददाति हि पिता मितं माता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ।।2.39.30।।
Meaning