Sarga 39: Farewell before the Forest
वनगमनापृच्छा
vanagamanāpṛcchā — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
साऽहमेवंगता श्रेष्ठा श्रुतर्धर्मपरावरा । आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ।।2.39.31।।
Meaning
सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् । शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ।।2.39.32।।
Meaning
तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् । रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ।।2.39.33।।
Meaning
अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम । क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ।।2.39.34।।
Meaning
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च । सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ।।2.39.35।।
Meaning
एतावदभिनीतार्थमुक्त्वा स जननीं वचः । त्रयः शतशतार्धाश्च ददर्शावेक्ष्य मातरः ।।2.39.36।।
Meaning
ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः । धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ।।2.39.37।।
Meaning
संवासात्परुषं किञ्चिदज्ञानाद्वाऽपि यत्कृतम् । तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ।।2.39.38।।
Meaning
वचनं राघवस्यैतद्धर्मयुक्तं समाहितम् । शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ।।2.39.39।।
Meaning
जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः । मानवेन्द्रस्य भार्याणामेवं वदति राघवे ।।2.39.40।।
Meaning