← Ayodhyā Kāṇḍa

Sarga 107: Rāma's Reply

रामप्रतिवचनम्

rāmaprativacanam — word-by-word gloss for all 19 shlokas.

Jump to a shloka · 19 in this sarga

Page 2 of 219 shlokas in this sarga (verified max-across-sources)
Shloka 107.11Word-by-word available

श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना । गयेन यजमानेन गयेष्वेव पितन् प्रति ।।2.107.11।।

Meaning

Shloka 107.12Word-by-word available

पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः पितॄन् यत्पाति वा सुतः ।।2.107.12।।

Meaning

Shloka 107.13Word-by-word available

एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः । तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ।।2.107.13।।

Meaning

Shloka 107.14Word-by-word available

एवं राजर्षयः सर्वे प्रतीता राजनन्दन । तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ।।2.107.14।।

Meaning

Shloka 107.15Word-by-word available

अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय । शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः ।।2.107.15।।

Meaning

Shloka 107.16Word-by-word available

प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् । आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ।।2.107.16।।

Meaning

Shloka 107.17Word-by-word available

त्वं राजा भरत भव स्वयं नराणाम् वन्यानामहमपि राजराण्मृगाणाम् । गच्छत्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ।।2.107.17।।

Meaning

Shloka 107.18Word-by-word available

छायां ते दिनकरभाः प्रबाधमानम् वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननद्रुमाणां छायां तामतिशयिनीं सुखी श्रयिष्ये ।।2.107.18।।

Meaning

Shloka 107.19Word-by-word available

शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् । चत्वारस्तनयवरा वयं नरेन्द्रम् सत्यस्थं भरत चराम मा विषादम् ।।2.107.19।।

Meaning