Sarga 22: The Power of Fate
दैवप्राबल्यम्
daivaprābalyam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण। अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः ।।2.22.11।।
Meaning
मम प्रव्राजनादद्य कृतकृत्या नृपात्मज। सुतं भरतमव्यग्रमभिषेचयिता ततः ।।2.22.12।।
Meaning
मयि चीराजिनधरे जटामण्डलधारिणि। गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम् ।।2.22.13।।
Meaning
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्। तं तु नार्हामि सङ्क्लेष्टुं प्रव्रजिष्यामि माचिरम् ।।2.22.14।।
Meaning
कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने। राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ।।2.22.15।।
Meaning
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने। यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ।।2.22.16।।
Meaning
जानासि हि यथा सौम्य न मातृषु ममान्तरम्। भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा ।।2.22.17।।
Meaning
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः। उग्रैर्वाक्यैरहं तस्याः नान्यद्दैवात्समर्थये ।।2.22.18।।
Meaning
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा। ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ।।2.22.19।।
Meaning
यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते। व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ।।2.22.20।।
Meaning