Sarga 22: The Power of Fate
दैवप्राबल्यम्
daivaprābalyam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
कश्च दैवेन सौमित्रे योद्धुमुत्सहते पुमान्। यस्य न ग्रहणं किञ्चित्कर्मणोऽन्यत्र दृश्यते ।।2.22.21।।
Meaning
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ। यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ।।2.22.22।।
Meaning
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः। उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ।।2.22.23।।
Meaning
असङ्कल्पितमेवेह यदकस्मात्प्रवर्तते। निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ।।2.22.24।।
Meaning
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना। व्याहतेऽप्यभिषेके मे परितापो न विद्यते ।।2.22.25।।
Meaning
तस्मादपरितापः संस्त्वमप्यनुविधाय माम्। प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ।।2.22.26।।
Meaning
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः। मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ।।2.22.27।।
Meaning
अथवा किं ममैतेन राजद्रव्यमतेन तु। उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ।।2.22.28।।
Meaning
मा च लक्ष्मण सन्तापं कार्षिर्लक्ष्म्या विपर्यये। राज्यं वा वनवासो वा वनवासो महोदयः ।।2.22.29।।
Meaning
न लक्ष्मणास्मिन्खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया। दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथाप्रभावम् ।।2.22.30।।
Meaning