← Ayodhyā Kāṇḍa

Sarga 115: Dwelling at Nandigrāma

नन्दिग्रामनिवासः

nandigrāmanivāsaḥ — word-by-word gloss for all 27 shlokas.

Jump to a shloka · 27 in this sarga

Page 2 of 327 shlokas in this sarga (verified max-across-sources)
Shloka 115.11Word-by-word available

बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिनः ।।2.115.11।।

Meaning

Shloka 115.12Word-by-word available

रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः । नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ।।2.115.12।।

Meaning

Shloka 115.13Word-by-word available

ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः । अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह ।।2.115.13।।

Meaning

Shloka 115.14Word-by-word available

एतद्राज्यं मम भ्रात्रा दत्तं सन्न्यासवत् स्वयम् । योगक्षेमवहे चेमे पादुके हेमभूषिते ।।2.115.14।।

Meaning

Shloka 115.15Word-by-word available

भरतः शिरसा कृत्वा सन्न्यासं पादुके ततः । अब्रवीद्दुःखसन्तप्तः सर्वं प्रकृतिमण्डलम् ।।2.115.15।।

Meaning

Shloka 115.16Word-by-word available

छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ । आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ।।2.115.16।।

Meaning

Shloka 115.17Word-by-word available

भ्रात्रा हि मयि सन्न्यासो निक्षिप्तः सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ।।2.115.17।।

Meaning

Shloka 115.18Word-by-word available

क्षिप्रं सम्योजयित्वा तु राघवस्य पुनः स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ।।2.115.18।।

Meaning

Shloka 115.19Word-by-word available

ततो निक्षिप्तभारोऽहं राघवेण समागतः । निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ।।2.115.19।।

Meaning

Shloka 115.20Word-by-word available

राघवाय च सन्न्यासं दत्त्वे मे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो भवामि च ।।2.115.20।।

Meaning