← Ayodhyā Kāṇḍa

Sarga 17: Rāma Arrives

रामागमनम्

rāmāgamanam — word-by-word gloss for all 22 shlokas.

Jump to a shloka · 22 in this sarga

Page 2 of 322 shlokas in this sarga (verified max-across-sources)
Shloka 17.11Word-by-word available

यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्। ततो हि नः प्रियतरं नान्यत्किञ्चिद्भविष्यति ।।2.17.11।।

Meaning

Shloka 17.12Word-by-word available

यथाभिषेको रामस्य राज्येनामिततेजसः। एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः ।।2.17.12।।

Meaning

Shloka 17.13Word-by-word available

आत्मसम्पूजनीः शृण्वन्ययौ रामो महापथम्। न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।।2.17.13।।

Meaning

Shloka 17.14Word-by-word available

नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे। यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।।2.17.14।।

Meaning

Shloka 17.15Word-by-word available

निन्दितः स वसेल्लोक्е स्वात्माप्येनं विगर्हते। सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ।।2.17.15।।

Meaning

Shloka 17.16Word-by-word available

चतुर्णां हि वयस्थानां तेन ते तमनुव्रताः। चतुष्पथान्देवपथांश्चैत्यान्यायतनानि च ।।2.17.16।।

Meaning

Shloka 17.17Word-by-word available

प्रदक्षिणं परिहरन्जगाम नृपतेः सुतः। स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः ।।2.17.17।।

Meaning

Shloka 17.18Word-by-word available

प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः। आवारयद्भिर्गगनं विमानैरिव पाण्डरैः ।।2.17.18।।

Meaning

Shloka 17.19Word-by-word available

वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः। तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् ।।2.17.19।।

Meaning

Shloka 17.20Word-by-word available

राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्। स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ।।2.17.20।।

Meaning