Sarga 59: Daśaratha's Lament
दशरथविलापः
daśarathavilāpaḥ — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
देव राजरथं दृष्ट्वा विना राममिहागतम् । दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ।।2.59.11।।
Meaning
हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथमागतम् । हाहाकारकृता नार्यो रामादर्शनकर्शिताः ।।2.59.12।।
Meaning
आयतैः विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः ।।2.59.13।।
Meaning
नामित्राणां न मित्राणामुदासीनजनस्य च । अहमार्ततया कञ्चित् विशेषमुपलक्षये ।।2.59.14।।
Meaning
अप्रहृष्टमनुष्या च दीननागतुरङ्गमा । आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ।।2.59.15।।
Meaning
निरानन्दा महाराज रामप्रव्राजनातुरा । कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ।।2.59.16।।
Meaning
सूतस्य वचनं श्रुत्वा वाचा परमदीनया । बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ।।2.59.17।।
Meaning
कैकेय्या विनियुक्तेन पापाभिजनभावया । मया न मन्त्रकुशलैः वृद्धैः सह समर्थितम् ।।2.59.18।।
Meaning
न सुहृद्भिर्न चामात्यैः मन्त्रयित्वा च नैगमैः । मयाऽयमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः ।।2.59.19।।
Meaning
भवितव्यतया नूनमिदं वा व्यसनं महत् । कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ।।2.59.20।।
Meaning