Sarga 59: Daśaratha's Lament
दशरथविलापः
daśarathavilāpaḥ — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
सूत यद्यस्ति ते किञ्चित् मया तु सुकृतं कृतम् । त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम् ।।2.59.21।।
Meaning
यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् । न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ।।2.59.22।।
Meaning
अथवाऽपि महाबाहुर्गतो दूरं भविष्यति । मामेव रथमारोप्य शीघ्रं रामाय दर्शय ।।2.59.23।।
Meaning
वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः । यदि जीवामि साध्वेनं पश्येयं सीतया सह ।।2.59.24।।
Meaning
लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् । रामं यदि न पश्यायं गमिष्यामि यमक्षयम् ।।2.59.25।।
Meaning
अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम् । इमामवस्थामापन्नो नेह पश्यामि राघवम् ।।2.59.26।।
Meaning
हा राम रामानुज हा हा वैदेहि तपस्विनी । न मां जानीत दुःखेन म्रियमाणमनाथवत् ।।2.59.27।।
Meaning
स तेन राजा दुःखेन भृशमर्पितचेतनः । अवगाढः सुदुष्पारं शोकसागरमब्रवीत् ।।2.59.28।।
Meaning
रामशोकमहाभोगः सीताविरहपारगः । श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ।।2.59.29।।
Meaning
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः । प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ।।2.59.30।।
Meaning