Sarga 57: Sumantra Returns
सुमन्त्रोपावर्तनम्
sumantropāvartanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः । अहो धिगिति निश्वस्य हा रामेति च चुक्रुशुः ।।2.57.11।।
Meaning
शुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम् । हताः स्म खलु ये नेह पश्यामैति राघवम् ।।2.57.12।।
Meaning
दानयज्ञविवाहेषु समाजेषु महत्सु च । न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ।।2.57.13।।
Meaning
किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् । इति रामेण नगरं पितृवत्परिपालितम् ।।2.57.14।।
Meaning
वातायनगतानां च स्त्रीणामन्वन्तरापणम् । रामशोकाभितप्तानां शुश्राव परिदेवनम् ।।2.57.15।।
Meaning
स राजमार्गमध्येन सुमन्त्रः पिहिताननः । यत्र राजा दशरथस्तदेवोपययौ गृहम् ।।2.57.16।।
Meaning
सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च । कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ।।2.57.17।।
Meaning
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । हाहाकारकृता नार्यो रामदर्शनकर्शिताः ।।2.57.18।।
Meaning
आयतैर्विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ।।2.57.19।।
Meaning
ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः । रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ।।2.57.20।।
Meaning