Sarga 57: Sumantra Returns
सुमन्त्रोपावर्तनम्
sumantropāvartanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
सह रामेण निर्यातः विना राममिहागतः । सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ।।2.57.21।।
Meaning
यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् । आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ।।2.57.22।।
Meaning
सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् । प्रदीप्तमिव शोकेन विवेश सहसा गृहम् ।।2.57.23।।
Meaning
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् । पुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे ।।2.57.24।।
Meaning
अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च । सुमन्त्रः रामवचनं यथोक्तं प्रत्यवेदयत् ।।2.57.25।।
Meaning
स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः । मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ।।2.57.26।।
Meaning
ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ । उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ।।2.57.27।।
Meaning
सुमित्रया तु सहिता कौसल्या पतितं पतिम् । उत्थापयामास तदा वचनं चेदमब्रवीत् ।।2.57.28।।
Meaning
इमं तस्य महाभाग दूतं दुष्करकारिणः । वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ।।2.57.29।।
Meaning
अद्येममनयं कृत्वा व्यपत्रपसि राघव । उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता ।।2.57.30।।
Meaning