Sarga 61: Kausalyā's Reproach
कौसल्योपालम्भः
kausalyopālambhaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यं च कोशं च भरतो नोपलक्षयते ।।2.61.11।।
Meaning
भोजयन्ति किल श्राद्धे केचित्स्वानेव बान्धवान् । ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ।।2.61.12।।
Meaning
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः । न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ।।2.61.13।।
Meaning
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः । नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ।।2.61.14।।
Meaning
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते । भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ।।2.61.15।।
Meaning
न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्चति । एवमेतन्नरव्याघ्रः परलीढं न मन्यते ।।2.61.16।।
Meaning
हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः । नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ।।2.61.17।।
Meaning
तथा ह्यात्तमिदं राज्यं हृतसारं सुरामिव । नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ।।2.61.18।।
Meaning
नैवं विधमसत्कारं राघवो मर्षयिष्यति । बलवानिव शार्दूलो वालधेरभिमर्शनम् ।।2.61.19।।
Meaning
नैतस्य सहिता लोकाः भयं कुर्युर्महामृधे । अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ।।2.61.20।।
Meaning