Sarga 61: Kausalyā's Reproach
कौसल्योपालम्भः
kausalyopālambhaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । युगान्त इव भूतानि सागरानपि निर्दहेत् ।।2.61.21।।
Meaning
स तादृशः सिंहबलो वृषभाक्षो नरर्षभः । स्वयमेव हतः पित्रा जलजेनात्मजो यथा ।।2.61.22।।
Meaning
द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः । यदि ते धर्मनिरते त्वया पुत्रे विवासिते ।।2.61.23।।
Meaning
गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः । तृतीया ज्ञातयो राजन् चतुर्थी नेह विद्यते ।।2.61.24।।
Meaning
तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः । न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ।।2.61.25।।
Meaning
हतं त्वया राज्यमिदं सराष्ट्रम् हतस्तथात्मा सह मन्त्रिभिश्च । हता सपुत्राऽस्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ।।2.61.26।।
Meaning
इमां गिरं दारुणशब्दसंश्रिताम् निशम्य राजाऽपि मुमोह दुःखितः । ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ।।2.61.27।।
Meaning