← Ayodhyā Kāṇḍa

Sarga 41: The City in Turmoil

नगरसङ्क्षोभः

nagarasaṅkṣobhaḥ — word-by-word gloss for all 21 shlokas.

Jump to a shloka · 21 in this sarga

Page 2 of 321 shlokas in this sarga (verified max-across-sources)
Shloka 41.11Word-by-word available

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि । दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ।।2.41.11।।

Meaning

Shloka 41.12Word-by-word available

नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः । विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे ।।2.41.12।।

Meaning

Shloka 41.13Word-by-word available

कालिकानिलवेगेन महोदधिरिवोत्थितः । रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ।।2.41.13।।

Meaning

Shloka 41.14Word-by-word available

दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः । न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ।।2.41.14।।

Meaning

Shloka 41.15Word-by-word available

अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् । आहारे वा विहारे वा न कश्चिदकरोन्मनः ।।2.41.15।।

Meaning

Shloka 41.16Word-by-word available

शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् । अयोध्यायां जनः सर्वः शुशोच जगतीपतिम् ।।2.41.16।।

Meaning

Shloka 41.17Word-by-word available

बाष्पपर्याकुलमुखो राजमार्गगतो जनः । न हृष्टः लक्ष्यते कश्चित्सर्वः शोकपरायणः ।।2.41.17।।

Meaning

Shloka 41.18Word-by-word available

न वाति पवनः शीतो न शशी सौम्यदर्शनः । न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ।।2.41.18।।

Meaning

Shloka 41.19Word-by-word available

अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा । सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ।।2.41.19।।

Meaning

Shloka 41.20Word-by-word available

ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः । शोकभारेण चाक्रान्ताः शयनं न जुहुस्तदा ।।2.41.20।।

Meaning