Sarga 43: Kausalyā's Lament
कौसल्यापरिदेवितम्
kausalyāparidevitam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ । नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ।।2.43.11।।
Meaning
कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति । पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ।।2.43.12।।
Meaning
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ । लाजैरवकरिष्यन्ति प्रविशन्तावरिन्दमौ ।।2.43.13।।
Meaning
प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ । उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ।।2.43.14।।
Meaning
कदा सुमनसः कन्या द्विजातीनां फलानि च । प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ।।2.43.15।।
Meaning
कदा परिणतो बुद्ध्या वयसा चामरप्रभः । अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन् ।।2.43.16।।
Meaning
निस्संशयं मया मन्ये पुरा वीर कदर्यया । पातुकामेषु वत्सेषु मातृणां शातिताः स्तनाः ।।2.43.17।।
Meaning
साहं गौरिव सिंहेन विवत्सा वत्सला कृता । कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ।।2.43.18।।
Meaning
न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् । एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ।।2.43.19।।
Meaning
न हि मे जीविते किञ्चित्सामर्थ्यमिह कल्प्यते । अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ।।2.43.20।।
Meaning