Sarga 96: Lakṣmaṇa's Anger
लक्ष्मणक्रोधः
lakṣmaṇakrodhaḥ — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
अपि नौ वशमागच्छेत् कोविदारध्वजो रणे । अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।।2.96.21।।
Meaning
त्वया राघव सम्प्राप्तं सीतया च मया तथा । यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।।2.96.22।।
Meaning
सम्प्राप्तोऽयमरिर्वीर भरतो वध्यैव मे । भरतस्य वधे दोषं नाहं पश्यामि राघव ।।2.96.23।।
Meaning
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते । पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।।2.96.24।।
Meaning
एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् । अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।।2.96.25।।
Meaning
मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम् । कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।।2.96.26।।
Meaning
कलुषेणाद्य महता मेदिनी परिमुच्यताम् । अद्येमं सम्यतं क्रोधमसत्कारं च मानद ।।2.96.27।।
Meaning
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् । अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः ।।2.96.28।।
Meaning
भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् । शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।।2.96.29।।
Meaning
श्वापदाः परिकर्षन्तु नरांश्च निहतान्मया । शराणां धनुषश्चाहमनृणोऽस्मि महामृधे । ससैन्यं भरतं हत्वा भविष्यामि न संशयः ।।2.96.30।।
Meaning