Sarga 99: Mahāpārśva Slain
महापार्श्ववधः
mahāpārśvavadhaḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत । जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ।।6.99.11।।
Meaning
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः । जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ ।।6.99.12।।
Meaning
जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः । तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम् ।।6.99.13।।
Meaning
दूरस्थितस्य परिघं रविरश्मिसमप्रभम् । द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान् ।।6.99.14।।
Meaning
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः । स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ।।6.99.15।।
Meaning
धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् । तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ।।6.99.16।।
Meaning
तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले । स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ।।6.99.17।।
Meaning
करेणैकेन जग्राह सुमहान्तं परश्वधम् । तं तैलधौतं विमलं शैलसारमयं दृढम् ।।6.99.18।।
Meaning
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् । तेन वामांसफलके भृशं प्रत्यवपादितम् ।।6.99.19।।
Meaning
अङ्गदो मोक्षयामास सरोषः स परश्वधम् । स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः ।।6.99.20।।
Meaning