Sarga 1: Daśaratha Resolves to Crown Rāma
रामाभिषेकव्यवसायः
rāmābhiṣekavyavasāyaḥ — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
न चावमन्ता भूतानां न च कालवशानुगः। एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।।2.1.31।।
Meaning
संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः। बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।।2.1.32।।
Meaning
तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः। गुणैर्विरुरुचे रामो दीप्तैः सूर्य इवांशुभिः ।।2.1.33।।
Meaning
तमेवं व्रतसंपन्नमप्रधृष्यपराक्रमम्। लोकपालोपमं नाथमकामयत मेदिनी ।।2.1.34।।
Meaning
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्। दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ।।2.1.35।।
Meaning
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः। प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।।2.1.36।।
Meaning
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते। कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।।2.1.37।।
Meaning
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः। मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ।।2.1.38।।
Meaning
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ। महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।।2.1.39।।
Meaning
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्। अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।।2.1.40।।
Meaning