← Ayodhyā Kāṇḍa

Sarga 1: Daśaratha Resolves to Crown Rāma

रामाभिषेकव्यवसायः

rāmābhiṣekavyavasāyaḥ — word-by-word gloss for all 51 shlokas.

Page 5 of 651 shlokas in this sarga (verified max-across-sources)
Shloka 1.41Word-by-word available

इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः। शिष्टैरपरिमेयैश्च लोके लोकोत्तरगुणैः ।।2.1.41।।

Meaning

Shloka 1.42Word-by-word available

तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः। निश्चित्य सचिवैः सार्धं युवराजममन्यत ।।2.1.42।।

Meaning

Shloka 1.43Word-by-word available

दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्। संचचक्षे च मेधावी शरीरे चात्मनो जराम् ।।2.1.43।।

Meaning

Shloka 1.44Word-by-word available

पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः। लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।।2.1.44।।

Meaning

Shloka 1.45Word-by-word available

आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च। प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ।।2.1.45।।

Meaning

Shloka 1.46Word-by-word available

नानानगरवास्तव्यान्पृथग्जानपदानपि। समानिनाय मेदिन्याः प्रधानान्पृथिवीपतीन् ।।2.1.46।।

Meaning

Shloka 1.47Word-by-word available

तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्। ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।।2.1.47।।

Meaning

Shloka 1.48Word-by-word available

न तु केकयराजानं जनकं वा नराधिपः। त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।।2.1.48।।

Meaning

Shloka 1.49Word-by-word available

अथोपविष्टे नृपतौ तस्मिन्परबलार्दने। ततः प्रविविशुः शेष राजानो लोकसम्मताः ।।2.1.49।।

Meaning

Shloka 1.50Word-by-word available

अथ राजवितीर्णेषु विविधेष्वासनेषु च। राजानमेवाभिमुखाः निषेदुर्नियता नृपाः ।।2.1.50।।

Meaning