Sarga 10: Daśaratha Pleads with Kaikeyī
कैकेय्यनुनयः
kaikeyyanunayaḥ — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनी। कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।।2.10.31।।
Meaning
कः प्रियं लभतामद्य को वा सुमहदप्रियम्। मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम् ।।2.10.32।।
Meaning
अवध्यो वध्यतां को वा कोवा वध्यः विमुच्यताम्। दरिद्रः को भवेदाढ्यो द्रव्यवान् वाऽप्यकिञ्चनः ।।2.10.33।।
Meaning
अहं चैव मदीयाश्च सर्वे तव वशानुगाः। न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ।।2.10.34।।
Meaning
आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि। बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ।।2.10.35।।
Meaning
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे। यावदावर्तते चक्रं तावती मे वसुन्धरा ।।2.10.36।।
Meaning
प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः। वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ।।2.10.37।।
Meaning
तत्र जातं बहुद्रव्यं धनधान्यमजाविकम्। ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ।।2.10.38।।
Meaning
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने। तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ।।2.10.39।।
Meaning
तत्ते व्यपनयिष्यामि नीहारमिव भास्करः। तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्। परिपीडयितुं भूयो भर्तारमुपचक्रमे ।।2.10.40।।
Meaning