Sarga 15: Sumantra Sent for Rāma
सुमन्त्रप्रेषणम्
sumantrapreṣaṇam — word-by-word gloss for all 49 shlokas.
Jump to a shloka · 49 in this sarga
स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन्। वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन् ।।2.15.41।।
Meaning
ततः समासाद्य महाधनं महत्प्रहृष्टरोमा स बभूव सारथिः। मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव ।।2.15.42।।
Meaning
स तत्र कैलासनिभाः स्वलङ्कृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः। प्रियान्नरान्राममते स्थितान्बहूनपोह्य शुद्धान्तमुपस्थितो रथी ।।2.15.43।।
Meaning
स तत्र शुश्राव च हर्षयुक्ताः रामाभिषेकार्थयुता जनानाम्। नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टः ।।2.15.44।।
Meaning
महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम्। ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः ।।2.15.45।।
Meaning
उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैश्च मर्त्यः। कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वारपथं ददर्श ।।2.15.46।।
Meaning
ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमप्रसह्यम्। रामौपवाह्यं रुचिरं ददर्श शत्रुंजयं नागमुदग्रकायम् ।।2.15.47।।
Meaning
स्वलङ्कृतान्साश्वरथान्सकुञ्जरानमात्यमुख्यान् शतशश्च वल्लभान्। व्यपोह्य सूतः सहितान्समन्ततः समृद्धमन्तःपुरमाविवेश ।।2.15.48।।
Meaning
तदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत्। अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् ।।2.15.49।।
Meaning